धीरसमीरे यमुनातीरे वसति वने वनमालीl
गोपीपीनपयोधरमर्दनचञ्चलकरयुगशाली ॥ १॥
नाम समेतं कृतसंकेतं वादयते मृदुवेणुम्।
बहु मनुते ननु ते तनुसंगतपवनचलितमपि रेणुम् ॥ २॥
धीरसमीरे यमुनातीरे वसति वने वनमालीl
पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम्।
रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥३॥
धीरसमीरे यमुनातीरे वसति वने वनमालीl
मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम्।
चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ ४॥
धीरसमीरे यमुनातीरे वसति वने वनमालीl
उरसि मुरारेरुपहितहारे, घन इव तरल-बलाके।
तडिदिव पीते रतिविपरीते, राजसि सुकृत-विपाके ॥ ५॥
धीरसमीरे यमुनातीरे वसति वने वनमालीl
विगलितवसनं परिहृतरसनं, घटय जघनमपिधानम्।
किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ ६॥
धीरसमीरे यमुनातीरे वसति वने वनमालीl
हरिरभिमानी रजनिरिदानी, मियमपि याति विरामम् ।
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ ७॥
धीरसमीरे यमुनातीरे वसति वने वनमाली l
श्रीजयदेवे कृतहरिसेवे भणति परम-रमणीयम्।
प्रमुदितहृदयं हरिमतिसदयं, नमत सुकृतकमनीयम् ॥ ८॥
धीरसमीरे यमुनातीरे वसति वने वनमाली l