श्रीविष्णुसहस्रनामस्तोत्रम् lyrics | Sanskrit

 

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

ॐ अथ सकलसौभाग्यदायक श्रीविष्णुसहस्रनामस्तोत्रम् ।

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नो-पशान्तये ॥ १॥

यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४॥

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६॥

ॐ नमो विष्णवे प्रभविष्णवे ।

श्रीवैशम्पायन उवाच —

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७॥

     युधिष्ठिर उवाच —

किमेकं दैवतं लोके किं वाप्येकं परायणम्
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८॥

को धर्मः सर्वधर्माणां भवतः परमो मतः
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ९॥

     भीष्म उवाच —

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ १०॥

तमेव चार्चयन्नित्यं  भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११॥

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ १२॥

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ १३॥

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।

यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४॥

परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ १५॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं दैवतानां च भूतानां योऽव्ययः पिता ॥ १६॥

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ १७॥

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे श‍ृणु पापभयापहम् ॥ १८॥

यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९॥

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २०॥

अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ २१॥

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमम् ॥ २२ ॥

पूर्वन्यासः

     श्रीवेदव्यास उवाच —

ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ।
श्री वेदव्यासो भगवान् ऋषिः ।

अनुष्टुप् छन्दः ।

श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।
अमृतांशूद्भवो भानुरिति बीजम् ।
देवकीनन्दनः स्रष्टेति शक्तिः ।
उद्भवः क्षोभणो देव इति परमो मन्त्रः ।
शङ्खभृन्नन्दकी चक्रीति कीलकम् ।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।
रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ।
त्रिसामा सामगः सामेति कवचम् ।
आनन्दं परब्रह्मेति योनिः ।
ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥
श्रीविश्वरूप इति ध्यानम् ।
श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥

           अथ न्यासः ।

ॐ शिरसि वेदव्यासऋषये नमः ।
मुखे अनुष्टुप्छन्दसे नमः ।
हृदि श्रीकृष्णपरमात्मदेवतायै नमः ।
गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः ।
पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः ।
सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः ।
करसम्पूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ॥
इति ऋषयादिन्यासः ॥

           अथ करन्यासः ।

ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः ।
अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः ।
सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः ।
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः ।
रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।

           अथ षडङ्गन्यासः ।

ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः ।
अमृतांशूद्भवो भानुरिति शिरसे स्वाहा ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् ।
सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् ।
निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् ।
रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् ।
इति षडङ्गन्यासः ॥

श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं करिष्ये इति सङ्कल्पः ।

           अथ ध्यानम् ।

क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां
मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ १॥

भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥ २॥

MEDITATION

ॐ शान्ताकारं भुजग-शयनं पद्मनाभं सुरेशं
विश्वाधारं गगन-सदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नो-पशान्तये ॥ १॥

मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ४॥

नमः समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५॥

सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षःस्थलकौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम् ॥ ६॥

नमामि विष्णुं शिरसा चतुर्भुजम् ॥ ६॥
छायायां पारिजातस्य हेमसिंहासनोपरि आसीनमम्बुदश्याममायताक्षमलंकृतम् ।
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७॥

स्तोत्रम्

हरिः ॐ ।

ॐ विश्वं विष्णुर्व-षट्कारो भूत-भव्य-भवत्प्रभुः ।
भूतकृद्भूत-भृद्भावो भूतात्मा भूत-भावनः ॥ १॥

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥

योगो योग-विदां नेता प्रधान-पुरुषेश्वरः ।
नारसिंह-वपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३॥

सर्वः शर्वः शिवः स्थाणु-र्भूतादि-र्निधिरव्ययः ।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
अनादि-निधनो धाता विधाता धातु-रुत्तमः ॥ ५॥

अप्रमेयो हृषीकेशः पद्मनाभो-ऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूत-स्त्रिक-कुब्धाम पवित्रं मङ्गलं परम् ॥ ७॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्य-गर्भो भूगर्भो माधवो मधुसूदनः ॥ ८॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृति-रात्मवान् ॥ ९॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्व-दर्शनः ॥ १०॥

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादि-रच्युतः ।
वृषा-कपिर-मेयात्मा सर्वयोग-विनिःसृतः ॥ ११॥

वसुर्वसुमनाः सत्यः समात्मा-ऽसम्मितः समः ।
अमोघः पुण्डरी-काक्षो वृषकर्मा वृषाकृतिः ॥ १२॥

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वत-स्थाणुर्वरा-रोहो महातपाः ॥ १३॥

सर्वगः सर्व-विद्भानु-र्विष्वक्सेनो जनार्दनः ।
वेदो वेद-विदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूह-श्चतुर्दंष्ट्र-श्चतुर्भुजः ॥ १५॥

भ्राजिष्णु-र्भोजनं भोक्ता सहिष्णु-र्जगदा-दिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६॥

उपेन्द्रो वामनः प्रांशुर-मोघः शुचि-रूर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८॥

महाबुद्धि-र्महावीर्यो महाशक्ति-र्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमान-मेयात्मा महाद्रि-धृक् ॥ १९॥

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २०॥

मरीचि-र्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१॥

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२॥

गुरुर्गुरुतमो धाम सत्यः सत्य-पराक्रमः ।
निमिषो-ऽनिमिषः स्रग्वी वाचस्पति-रुदारधीः ॥ २३॥

अग्रणी-र्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्र-पात् ॥ २४॥

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।
अहः संवर्तको वह्निर-निलो धरणीधरः ॥ २५॥

सुप्रसादः प्रसन्नात्मा विश्व-धृग्विश्व-भुग्विभुः ।
सत्कर्ता सत्कृतः साधु-र्जह्नु-र्नारायणो नरः ॥ २६॥

असङ्ख्येयो-ऽप्रमेयात्मा विशिष्टः शिष्ट-कृच्छुचिः ।
सिद्धार्थः सिद्ध-सङ्कल्पः सिद्धिदः सिद्धि-साधनः ॥ २७॥

वृषाही वृषभो विष्णु-र्वृष-पर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः ॥ २८॥

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैक-रूपो बृहद्रूपः शिपि-विष्टः प्रकाशनः ॥ २९॥

ओजस्तेजो-द्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्र-श्चन्द्रांशु-र्भास्कर-द्युतिः ॥ ३०॥

अमृतां-शूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ॥ ३१॥

भूत-भव्य-भवन्नाथः पवनः पावनो-ऽनलः ।
कामहा काम-कृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२॥

युगादि-कृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्त-रूपश्च सहस्रजिद-नन्तजित् ॥ ३३॥

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोध-कृत्कर्ता विश्वबाहु-र्महीधरः ॥ ३४॥

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपां-निधिर-धिष्ठान-मप्रमत्तः प्रतिष्ठितः ॥ ३५॥

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानु-रादिदेवः पुरन्दरः ॥ ३६॥

अशोक-स्तारण-स्तारः शूरः शौरि-र्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्म-निभेक्षणः ॥ ३७॥

पद्मनाभो-ऽरविन्दाक्षः पद्मगर्भः शरीर-भृत् ।
महर्द्धि-रृद्धो वृद्धात्मा महाक्षो गरुड-ध्वजः ॥ ३८॥

अतुलः शरभो भीमः समयज्ञो हवि-र्हरिः ।
सर्वलक्षण-लक्षण्यो लक्ष्मीवान् समिति-ञ्जयः ॥ ३९॥

विक्षरो रोहितो मार्गो हेतु-र्दामोदरः सहः ।
महीधरो महाभागो वेगवान-मिताशनः ॥ ४०॥

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परम-स्पष्ट-स्तुष्टः पुष्टः शुभेक्षणः ॥ ४२॥

रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।
वीरः शक्ति-मतां श्रेष्ठो धर्मो धर्म-विदुत्तमः ॥ ४३॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्य-गर्भः शत्रुघ्नो व्याप्तो वायुर-धोक्षजः ॥ ४४॥

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः ॥ ४५॥

विस्तारः स्थावर-स्थाणुः प्रमाणं बीज-मव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६॥

अनि-र्विण्णः स्थविष्ठो-ऽभूर्धर्मयूपो महामखः ।
नक्षत्र-नेमि-र्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७॥

यज्ञ इज्यो महे-ज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्व-दर्शी विमुक्तात्मा सर्वज्ञो ज्ञान-मुत्तमम् ॥ ४८॥

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जित-क्रोधो वीरबाहु-र्विदारणः ॥ ४९॥

स्वापनः स्ववशो व्यापी नैकात्मा नैक-कर्म-कृत् ।
वत्सरो वत्सलो वत्सी रत्न-गर्भो धनेश्वरः ॥ ५०॥

धर्मगुब्धर्म-कृद्धर्मी सद-सत्क्षर-मक्षरम् ।
अविज्ञाता सहस्रांशु-र्विधाता कृत-लक्षणः ॥ ५१॥

गभस्ति-नेमिः सत्त्वस्थः सिंहो भूत-महेश्वरः ।
आदिदेवो महादेवो देवेशो देव-भृद्गुरुः ॥ ५२॥

उत्तरो गोपति-र्गोप्ता ज्ञान-गम्यः पुरातनः ।
शरीरभूत-भृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३॥

सोमपो-ऽमृतपः सोमः पुरुजित्पुरु-सत्तमः ।
विनयो जयः सत्यसन्धो दाशार्हः सात्व-ताम्पतिः ॥ ५४॥

जीवो विनयिता साक्षी मुकुन्दो-ऽमितविक्रमः ।
अम्भो-निधिर-नन्तात्मा महोदधि-शयोऽन्तकः ॥ ५५॥

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनी-पतिः ।
त्रिपदस्त्रि-दशाध्यक्षो महाश‍ृङ्गः कृतान्त-कृत् ॥ ५७॥

महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्त-श्चक्र-गदाधरः ॥ ५८॥

वेधाः स्वाङ्गो-ऽजितः कृष्णो दृढः सङ्कर्षणो-ऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥

भगवान् भगहाऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योति-रादित्यः सहिष्णु-र्गतिसत्तमः ॥ ६०॥

सुधन्वा खण्ड-परशु-र्दारुणो द्रविणप्रदः ।
दिविस्पृक् सर्व-दृग्व्यासो वाचस्पतिर-योनिजः ॥ ६१॥ 

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
संन्यास-कृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२॥

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपति-र्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३॥

अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेम-कृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोक-त्रयाश्रयः ॥ ६५॥

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्मा-ऽविधेयात्मा सत्कीर्ति-श्छिन्न-संशयः ॥ ६६॥

उदीर्णः सर्वत-श्चक्षु-रनीशः शाश्वत-स्थिरः ।
भूशयो भूषणो भूति-र्विशोकः शोक-नाशनः ॥ ६७॥

अर्चिष्मा-नर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धो-ऽप्रतिरथः प्रद्युम्नो-ऽमितविक्रमः ॥ ६८॥

कालने-मिनिहा वीरः शौरिः शूर-जनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९॥

कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपु-र्विष्णु-र्वीरोऽनन्तो धनञ्जयः ॥ ७०॥

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्म-विवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मण-प्रियः ॥ ७१॥

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतु-र्महायज्वा महायज्ञो महाहविः ॥ ७२॥

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्य-कीर्ति-रनामयः ॥ ७३॥

मनोजव-स्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसु-र्वसुमना हविः ॥ ७४॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५॥

भूतावासो वासुदेवः सर्वासु-निलयोऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरो-ऽथापराजितः ॥ ७६॥

विश्वमूर्ति-र्महामूर्ति-र्दीप्तमूर्ति-रमूर्तिमान् ।
अनेक-मूर्तिर-व्यक्तः शतमूर्तिः शताननः ॥ ७७॥

एको नैकः सवः कः किं यत् तत्पदम-नुत्तमम् ।
लोक-बन्धुर्लोकनाथो माधवो भक्त-वत्सलः ॥ ७८॥

सुवर्ण-वर्णो हेमाङ्गो वराङ्ग-श्चन्दना-ङ्गदी ।
वीरहा विषमः शून्यो घृता-शीर-चलश्चलः ॥ ७९॥

अमानी मानदो मान्यो लोक-स्वामी त्रिलोक-धृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८०॥

तेजोवृषो द्युतिधरः सर्व-शस्त्र-भृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैक-श‍ृङ्गो गदाग्रजः ॥ ८१॥

चतुर्मूर्ति-श्चतुर्बाहु-श्चतुर्व्यूह-श्चतुर्गतिः ।
चतुरात्मा चतुर्भाव-श्चतुर्वेद-विदेकपात् ॥ ८२॥

समावर्तो-ऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३॥

शुभाङ्गो लोकसारङ्गः सुतन्तु-स्तन्तु-वर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४॥

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः श‍ृङ्गी जयन्तः सर्व-विज्जयी ॥ ८५॥

सुवर्ण-बिन्दु-रक्षोभ्यः सर्ववागी-श्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनो-ऽनिलः ।
अमृताशो-ऽमृतवपुः सर्वज्ञः सर्वतो-मुखः ॥ ८७॥

सुलभः सुव्रतः सिद्धः शत्रुजिच्छ-त्रुतापनः ।
न्यग्रोधो-ऽदुम्बरोऽश्वत्थ-श्चाणूरान्ध्र-निषूदनः ॥ ८८॥

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्त-वाहनः ।
अमूर्ति-रनघोऽचिन्त्यो भय-कृद्भय-नाशनः ॥ ८९॥

अणु-र्बृहत्कृशः स्थूलो गुण-भृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंश-वर्धनः ॥ ९०॥

भार-भृत् कथितो योगी योगीशः सर्व-कामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायु-वाहनः ॥ ९१॥

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२॥

सत्त्ववान् सात्त्विकः सत्यः सत्य-धर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३॥

विहाय-सगति-र्ज्योतिः सुरुचि-र्हुत-भुग्विभुः ।
रवि-र्विरोचनः सूर्यः सविता रवि-लोचनः ॥ ९४॥

अनन्तो हुत-भुग्भोक्ता सुखदो नैकजो-ऽग्रजः ।
अनिर्विण्णः सदामर्षी लोका-धिष्ठान-मद्भुतः ॥ ९५॥

सनात्सनातन-तमः कपिलः कपिर-व्ययः ।
स्वस्तिदः स्वस्तिकृ-त्स्वस्ति स्वस्ति-भुक्स्वस्ति-दक्षिणः ॥ ९६॥

अरौद्रः कुण्डली चक्री विक्रम्यूर्जित-शासनः ।
शब्दा-तिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७॥

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां-वरः ।
विद्वत्तमो वीतभयः पुण्य-श्रवण-कीर्तनः ॥ ९८॥

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्न-नाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्य-वस्थितः ॥ ९९॥

अनन्त-रूपोऽ-नन्त-श्रीर्जित-मन्यु-र्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १००॥

अनादि-र्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जन-जन्मादि-र्भीमो भीम-पराक्रमः ॥ १०१॥

आधार-निलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥

प्रमाणं प्राण-निलयः प्राण-भृत्प्राण-जीवनः ।
तत्त्वं तत्त्व-विदेकात्मा जन्म-मृत्यु-जरातिगः ॥ १०३॥

भूर्भुवः-स्वस्त-रुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञ-पति-र्यज्वा यज्ञाङ्गो यज्ञ-वाहनः ॥ १०४॥

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञ-भुग् यज्ञ-साधनः ।
यज्ञान्त-कृद् यज्ञ-गुह्य-मन्न-मन्नाद एव च ॥ १०५॥

आत्म-योनिः स्वय-ञ्जातो वैखानः साम-गायनः ।
देवकी-नन्दनः स्रष्टा क्षितीशः पाप-नाशनः ॥ १०६॥

शङ्ख-भृन्नन्दकी चक्री शार्ङ्ग-धन्वा गदाधरः ।
रथाङ्ग-पाणि-रक्षोभ्यः सर्व-प्रहरणा-युधः ॥ १०७॥

सर्व-प्रहरणा-युध ॐ नम इति ।
वन-माली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णु-र्वासुदेवो-ऽभिरक्षतु ॥ १०८॥

श्री वासु-देवो-ऽभिरक्षतु ॐ नम इति ।

उत्तरन्यासः

     भीष्म उवाच —

इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १॥

य इदं श‍ृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ २॥

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ ४॥

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ ५॥

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६॥

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९॥

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १०॥

न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११॥

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३॥

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४॥

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५॥

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६॥

सर्वागमानामाचारः प्रथमं परिकल्प्यते । (परिकल्पते, परिकल्पितः)
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७॥

ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८॥

योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १९॥

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २०॥

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१॥

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२॥

न ते यान्ति पराभवम् ॐ नम इति ।

     अर्जुन उवाच —

पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३॥

श्रीभगवानुवाच —

यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४॥

स्तुत एव न संशय ॐ नम इति ।

     व्यास उवाच —

वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५॥

श्री वासुदेव नमोऽस्तुत ॐ नम इति ।

पार्वत्युवाच —

केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६॥

     ईश्वर उवाच —

श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ २७॥

श्रीरामनाम वरानन ॐ नम इति ।

     ब्रह्मोवाच —

नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।

सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥ २८॥
सहस्रकोटियुगधारिणे ॐ नम इति ।

ॐ तत्सदिति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यामानुशासनिके
पर्वणि भीष्मयुधिष्ठिरसंवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् ॥

     सञ्जय उवाच —

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९॥

श्रीभगवानुवाच —

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३०॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ३१॥

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ३२॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । (प्रकृतिस्वभावात् ।)
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३॥

  इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ।

           ॐ तत् सत् ।

महाभारते अनुशासनपर्वणि

 Additional Concluding Shlokas

ॐ आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥

आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम् ।
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥

नमः कोदण्डहस्ताय सन्धीकृतशराय च ।
खण्डिताखिलदैत्याय रामायऽऽपन्निवारिणे ॥

रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥

अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥

अच्युतानन्तगोविन्द नामोच्चारणभेषजात् ।
नश्यन्ति सकला रोगास्सत्यं सत्यं वदाम्यहम् ॥

सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते ।
वेदाच्छास्त्रं परं नास्ति न देवं केशवात्परम् ॥

शरीरे जर्झरीभूते व्याधिग्रस्ते कळेवरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः ॥

यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् ।
तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ॥

विसर्गबिन्दुमात्राणि पदपादाक्षराणि च ।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥

 Alternate Concluding Shlokas

नमः कमलनाभाय नमस्ते जलशायिने ।
नमस्ते केशवानन्त वासुदेव नमोऽस्तुते ॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥

आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥

एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः ।
कुपथं तं विजानीयाद् गोविन्दरहितागमम् ॥

सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम् ॥

यो नरः पठते नित्यं त्रिकालं केशवालये ।
द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति ॥

दह्यन्ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः ।
विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते ॥

येने ध्यातः श्रुतो येन येनायं पठ्यते स्तवः ।
दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः ॥

इह लोके परे वापि न भयं विद्यते क्वचित् ।
नाम्नां सहस्रं योऽधीते द्वादश्यां मम सन्निधौ ॥

शनैर्दहन्ति पापानि कल्पकोटीशतानि च ।
अश्वत्थसन्निधौ पार्थ ध्यात्वा मनसि केशवम् ॥

पठेन्नामसहस्रं तु गवां कोटिफलं लभेत् ।
शिवालये पठेन्नित्यं तुलसीवनसंस्थितः ॥

नरो मुक्तिमवाप्नोति चक्रपाणेर्वचो यथा ।
ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति ॥

विलयं यान्ति पापानि चान्यपापस्य का कथा ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥

           ॥ हरिः ॐ तत्सत् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *